वांछित मन्त्र चुनें

स॒मा॒नो मन्त्र॒: समि॑तिः समा॒नी स॑मा॒नं मन॑: स॒ह चि॒त्तमे॑षाम् । स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥

अंग्रेज़ी लिप्यंतरण

samāno mantraḥ samitiḥ samānī samānam manaḥ saha cittam eṣām | samānam mantram abhi mantraye vaḥ samānena vo haviṣā juhomi ||

पद पाठ

स॒मा॒नः । मन्त्रः॑ । सम्ऽइ॑तिः । स॒मा॒नी । स॒मा॒नम् । मनः॑ । स॒ह । चि॒त्तम् । ए॒षा॒म् । स॒मा॒नम् । मन्त्र॑म् । अमि । मं॒त्र॒ये॒ । वः॒ । स॒मा॒नेन । वः॒ । ह॒विषा॑ । जु॒हो॒मि॒ ॥ १०.१९१.३

ऋग्वेद » मण्डल:10» सूक्त:191» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:49» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मन्त्रः समानः) तुम्हारा विचार समान हो (समितिः समानी) सम्प्राप्ति या कार्यप्रवृत्ति समान हो (एषां-समानं मनः) इनका तुम्हारा समान मन्त्र (चित्तं सह) साथ चित्त भी समान हो (वः समानं मन्त्रम्) तुम्हारे समान मन्त्र को (अभिमन्त्रये) सम्पादित करता हूँ, बनाता हूँ (वः) तुम्हें (समानेन हविषा) समान प्रार्थनोपासन कर्म से (जुहोमि) अपनाता हूँ ॥३॥
भावार्थभाषाः - मनुष्यों के समान विचार, कार्यप्रवृत्ति समान, मन और चित्त समान होने चाहिये तथा स्तुति, प्रार्थना, उपासना समान होनी चाहिये ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (मन्त्रः समानः) युष्माकं विचारः समानो भवेत् (समितिः समानी) सम्प्राप्तिः कार्यप्रवृत्तिर्वा-समानी भवतु (एषां समानं मनः-चित्तं सह) एतेषां युष्माकं मनः समानं चित्तं समानमस्तु, मन्तव्यं चिन्तनीयमेकं भवतु (वः समानं मन्त्रम्-अभिमन्त्रये) युष्मभ्यं समानं मन्त्रं खल्वभ्याह्वये सम्पादयामि (वः समानेन हविषा जुहोमि) युष्मान् समानेन प्रार्थनोपासनकर्मणा स्वीकरोमि ॥३॥